आमलक घृत
(@च.चि.अपस्मारचिकित्साध्याय 10)
घटक द्रव्ये -
आमलकी स्वरस - ४ आढक (२५६ पल )
विदारीरस - ४ आढक
गोदुग्ध - ४ आढक
बला , अतिबला काढा - ४ आढक
पुनर्नवा कल्क - १/४ आढक
जीवंती कल्क - १/४ आढक
शतावरी कल्क - १/४ आढक
घृत - १ आढक
बृहच्छरीरं गिरिसारसारं स्थिरेन्द्रियं चातिबलेन्द्रियं च । अधृष्यमन्यैरतिकान्तरूपं प्रशस्तिपूजासुखचित्तभाक् च ।।5।।
बलं महद्वर्णविशुद्धिरग्र्या स्वरो घनौघस्तनितानुकारी।
भवत्यपत्यं विपुलं स्थिरं च समश्नतो योगमिमं नरस्य
॥6॥
@च.चि.रसायनाध्यायः 1/2
वाजीकरण घृत
घटक द्रव्ये -
उडीद - १ आढक (६४ पल)
आत्मगुप्ता बीज - १ आढक
जीवक - १ कुडव (४ पल)
ऋषभक - १ कुडव
काकोली - १ कुडव
मेदा - १ कुडव
ऋध्दी- १ कुडव
शतावरी - १ कुडव
ज्येष्ठमध - १ कुडव
अश्वगंधा - १ कुडव
गोघृत - १ प्रस्थ (१६ पल )
गोदुग्ध - १० प्रस्थ
विदारीगंध रस - १ प्रस्थ
ऊसाचा रस - १ प्रस्थ
खडीसाखर - ४ पल
वंशलोचन - ४ पल
मध - ४ पल
पिंपळीचूर्ण - १ पल
पाणी - ( क्वाथ द्रव्यांच्या ४ पट )
पलं पूर्वमतो लीढ्वा ततोऽन्नमुपयोजयेत् ॥37 ।।
जेवनापूर्वी १पल चाटून मग जेवण करावे.
य इच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ।
याच्या सेवनाने अक्षय शुक्र प्राप्ती होते व मूत्रेंद्रियात दृढता आणि बल येते.
@च.चि.वाजीकरणाध्यायः २/१
वृष्य घृत
जीवकर्षभकौ मेदां जीवन्तींं श्रावणीद्वयम् ।
खर्जूरं मधुकं द्राक्षां पिप्पलींं विश्वभेषजम् ॥21॥
शृङ्गाटकं विदारी च नवं सर्पिः पयो जलम् ।
सिद्धं घृतावशेषं तच्छर्कराक्षौद्रपादिकम् ॥22॥
षष्टिकान्नेन संयुक्तमुपयोज्यं यथाबलम् ।
वृष्यं बल्यं च वर्ण्यं च कण्ठ्यं बृंहणमुत्तमम् ।।23।।
( @च.चि.वाजीकरणाध्यायः २/२ )
वृष्य शतावरी घृत
घृतं शतावरीगर्भं क्षीरे दशगुणे पचेत् ।
शर्करापिप्पलीक्षौद्रयुक्तं तद्वृष्यमुत्तमम् ।।1 8।।
(@च.चि.वाजीकरणाध्यायः २/३)
अपत्यकर घृत
शतावर्या विदार्याश्च तथा माषात्मगुप्तयोः ।
श्वदंष्ट्रायाश्च निष्क्वाथाञ्जलेषु च पृथक् पृथक् ॥
साधयित्वा घृतप्रस्थं पयस्यष्टगुणे पुनः ।
शर्करामधुसंयुक्तं तदपत्यार्थी प्रयोजयेत् ।। 2 ९।।
@च.चि.वाजीकरणाध्यायः २/४
पिप्पल्यादी घृत
पिप्पल्यश्चन्दनं मुस्तमुशीरं कटुरोहिणी।
कलिङ्गकास्तामलकी सारिवाऽतिविषा स्थिरा ।।219।। द्राक्षाऽऽमलकबिल्वानि त्रायमाणा निदिग्धिका ।
सिद्धमेतैर्घघघृ सद्यो जीर्णज्वरमपोहति ॥220॥
क्षयं का शिरःशूल पार्श्वशूलं हलीमकम् ।
अंसाभितापमग्निं च विषमं सन्नियच्छति ॥221 ।।
@च.चि.ज्वरचिकित्साध्यायः ३
वासादी घृत
वासां गुडूचीं त्रिफलां त्रायमाणां यवासकम् ।
पक्त्वा तेन कषायेण पयसा द्विगुणेन च ॥222॥ पिप्पलीमुस्तमृद्विकाचन्दनोत्पलनागरैः ।
कल्कीकृतैश्च विपचेद् घृतं जीर्णज्वरापहम् ।।223।।
@च.चि.ज्वरचिकित्साध्यायः ३
बलादी घृत-
बलां श्वदंष्ट्रां बृहतींं कलसीं धावनीं स्थिराम्।
निम्बं पर्यटकं मुस्तं त्रायमाणां दुरालभाम् ॥224।।
कृत्या कषायं पेष्यार्थे दद्यात्तामलकीं शटीम् ।
द्राक्षां पुष्करमूलं च मेदामामलकानि च ॥225॥
घृतं पयश्च तत् सिद्धं सर्पिज्वरहरं परम् । क्षयकासशिरःशूलपार्श्वशूलांसतापनुत् ।।226।।
@च.चि.ज्वरचिकित्साध्यायः ३
वासाघृत
वासांं सशाखां सपलाशमूलां कृत्वा कषायं कुसुमानि चास्याः ।
प्रदाय कल्कं विपचेद्धृतं तत् सक्षौद्रमाश्चेव निहन्ति रक्तम् ॥88 ||
(@च.चि.रक्तपित्तचिकित्साध्यायः ४)
शतावरी घृत-
शतावरीदाडिमतिन्तिडीकं काकोलिमेदे मधुकं विदारीम् ।
पिष्ट्वा च मूलं फलपूरकस्य घृतं पचेत् क्षीरचतुर्गुणं ज्ञः ||195।।
कासज्वरानाहविबन्धशूलं तद्रक्तपित्तं च घृतं निहन्यात् ।
पंचपंचमुल घृत
यत् पञ्चमूलैरथ पञ्चभिर्वा सिद्धं घृतं तच्च तदर्थकारि
॥96||
(@च.चि.रक्तपित्तचिकित्साध्यायः ४)
पलाशवृन्तस्वरसेन सिद्धं तस्यैव कल्केन मधुद्रवेण ।
लिह्याद्घृतं वत्सककल्कसिद्धं तद्वत् समङ्गोत्पललोध्रसिध्दम् ॥
स्यात् त्रायमाणाविधिरेष एव सोदुम्बरे चैव पटोलपत्रे ।
सर्पींषि पित्तज्वरनाशनानि सर्वाणि शस्तानि च रक्तपिते ॥90।।
(@च.चि.रक्तपित्तचिकित्साध्यायः ४)
त्र्यूषणादिघृतम्
त्र्यूषणत्रिफलाधान्य विडङ्गचव्य चित्रकैः ।।6 5 ।।कल्कीकृतैर्घृतं सिद्धं सक्षीरं वातगुल्मनुत् ।
(@ च.चि.गुल्मचिकित्साध्यायः ५)
त्र्यूषणादिघृतमपरम्
एत एव च कल्काः स्युः कषायः पञ्चमूलिकः ।66। द्विपञ्चमूलिको वाऽपि तद्धृतं गुल्मनुत् परम् ।
(@ च.चि.गुल्मचिकित्साध्यायः ५)
षट्पल घृत
षट्पलं वा पिबेत् सर्पिर्यदुक्तं राजयक्ष्मणि ॥67।।
प्रसन्नया वा क्षीरार्थं सुरया दाडिमेन वा ।
दध्नः सरेण वा कार्यं घृतं मारुतगुल्मनुत् ॥ 68 ॥
(@ च.चि.गुल्मचिकित्साध्यायः ५)
हिङ्गुसौवर्चलाद्यं घृतम्
हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः ।पुष्करव्योषधान्याकवेतसक्षारचित्रकैः॥69॥ शटीवचाजगन्धैलासुरसैश्च विपाचितम् ।
शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् ॥70॥
(@ च.चि.गुल्मचिकित्साध्यायः ५)
हपुषाद्यं घृतम्
हपुषाव्योषपृथ्वीकाचव्यचित्रकसैन्धवैः | साजाजीपिप्पलीमूलदीप्यकैर्विपचेद् घृतम् ।।71।।
सकोलमूलकरसं सक्षीरदधिदाडिमम् ।
तत् परं वातगुल्मघ्नं शूलानाहविमोक्षणम् ॥72।। योन्यर्शोग्रहणीदोषश्वासकासारुचिज्वरान् । बस्तिहत्पार्श्वशूलं च घृतमेतद् व्यपोहति ॥73 ।।
(@ च.चि.गुल्मचिकित्साध्यायः ५)
पिप्पल्याद्यं घृतम्
पिप्पल्या पिचुरध्यर्धो दाडिमाद्द्विपलं पलम् ।
धान्यात्पञ्च घृताच्छुण्ठ्याः कर्षः क्षीरं चतुर्गुणम् ।।
सिद्धमेतैर्घृतं सद्यो वातगुल्मं व्यपोहति ।
योनिशूलं शिरःशूलमर्शांंसि विषमज्वरम् ।।75।।
(@ च.चि.गुल्मचिकित्साध्यायः ५)
नीलिनी घृत
नीलिनीत्रिवृतादन्तीपथ्याकम्पिल्लकैः सह ।
शोधनार्थं घृतं देयं सविडक्षारनागरम् ।।105||
@ च.चि.गुल्मचिकित्साध्यायः ५
नीलिन्याद्यं घृतम्
नीलिनींं त्रिफलां रास्नां बलां कटुकरोहिणीम् ।
पचेद्विडङ्गं व्याघ्रींं च पलिकानि जलाढके ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।
दध्नः प्रस्थेन संयोज्य सुधाक्षीरपलेन च ।।107।।
ततो घृतपलं दद्याद्यवागूमण्डमिश्रितम् ।
जीर्णे सम्यग्विरिक्तं च भोजयेद्रसभोजनम् ॥108॥ गुल्मकुष्ठोदरव्यङ्गशोफपाण्ड्वामयज्वरान् ।
श्वित्रं प्लीहानमुन्मादं घृतमेतद् व्यपोहति ॥109॥
@ च.चि.गुल्मचिकित्साध्यायः ५
रोहिण्याद्यं घृतम्
रोहिणीकटुकानिम्बमधुकत्रिफलात्वचः ।
कर्षांंशास्त्रायमाणा च पटोलत्रिवृतोः पले ।।115।।
द्वे पले च मसूराणां साध्यमष्टगुणेऽम्भसि ।
श्रुताच्छेषं घृतसमं सर्पिषश्च चतुष्पलम् ॥116॥
पिबेत् सम्मूर्च्छितं तेन गुल्मः शाम्यति पैत्तिकः ।
ज्वरस्तृष्णा च शूलं च भ्रमो मूर्च्छाअरुचिस्तथा ॥
@ च.चि.गुल्मचिकित्साध्यायः ५
त्रायमाणाद्य घृत
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम् ।
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कर्षिकैः ।।
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा । कल्कैस्तामलकीवीराजीवन्ती चन्दनोत्पलैः ।।
रसस्यामलकानां च क्षीरस्य च घृतस्य च ।
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत् ॥120॥ पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम् ।
हृद्रोगं कामलां कुष्ठं हन्यादेतत् घृतोत्तमम् ।।121।।
@ च.चि.गुल्मचिकित्साध्यायः ५
आमलकाद्य घृतम्
रसेनामलकेक्षूणां घृतप्रस्थं विपाचयेत् ।
पथ्यापादं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत् ॥1 22॥
@ च.चि.गुल्मचिकित्साध्यायः ५
द्राक्षाद्यं घृतम्
द्राक्षां मधूकं खर्जूरं विदारींं सशतावरीम् ।
परुषकाणि त्रिफलां साधयेत्पलसम्मितम् ।।23।।
जलाढके पादशेषे रसमामलकस्य च ।
घृतमिक्षुरसं क्षीरमभयाकल्कपादिकम् ॥124।।साधयेत्तद्घृतं सिद्धं शर्कराक्षौद्रपादिकम् ।
प्रयोगात् पित्तगुल्मघ्नं सर्वपित्तविकारनुत् ।।1 25 ।।
@ च.चि.गुल्मचिकित्साध्यायः ५
वासाघृतम्
वृषं समूलमापोथ्य पचेदष्टगुणे जले ।
शेषेऽष्टभागे तस्यैव पुष्पकल्कं प्रदापयेत् ।।126।।
तेन सिद्धं घृतं शीतं सक्षौद्रं पित्तगुल्मनुत् । रक्तपित्तज्वरश्वासकासहद्रोगनाशनम् ॥127॥
@ च.चि.गुल्मचिकित्साध्यायः ५
दशमूलघृतम्
सव्योषक्षारलवणं दशमूलीशृतं घृतम् ।
कफगुल्मं जयत्याशु सहिङ्गुविडदाडिमम् ।।142।।
@ च.चि.गुल्मचिकित्साध्यायः ५
भल्लातकाद्यं घृतम्
भल्लातकानां द्विपलं पञ्चमूलं पलोन्मितम् ।
साध्यं विदारीगन्धाद्यमापोथ्य सलिलाढके ।।
पादशेषे रसे तस्मिन् पिप्पलींं नागरं वचाम्।
विडङ्गं सैन्धवं हिङ्गु यावशूकं विडं शटीम् ॥144॥
चित्रकं मधुकं रास्नां पिष्ट्वा कर्षसमं भिषक् ।
प्रस्थं च पयसो दत्त्वा घृतप्रस्थं विपाचयेत् ॥
एतद्भल्लातकघृतं कफगुल्महरं परम् । प्लीहपाण्ड्वामयश्वासग्रहणीरोगकासनुत् ॥146॥
@ च.चि.गुल्मचिकित्साध्यायः ५
क्षीरषट्पलकं घृतम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरः ।
पलिकैः सयवक्षारैर्घृतप्रस्थं विपाचयेत् ।।147।। क्षीरप्रस्थं च तत् सर्पिर्हन्ति गुल्मं कफात्मकम् । ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ।।
@ च.चि.गुल्मचिकित्साध्यायः ५
खदिरघृतं निम्बघृतं दार्वी घृतमुत्तमं पटोलघृतम् । कुष्ठेषु रक्तपित्तप्रबलेषु भिषग्जितं सिद्धम् ।।135।।
@च.चि.कुष्ठचिकित्साध्यायः ७
तिक्तषट्पलकं घृतम्
निम्बपटोलं दार्वी दुरालभां तिक्तरोहिणींं त्रिफलाम् । कुर्यादर्धपलांशं पर्पटकं त्रायमाणां च ||140॥
सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते ।
चन्दन किराततिक्तकमागधिकास्त्रायमाणां च ।।141।।
मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान् ।
नवसर्पिषश्च षट्पलमेतत्सिद्धं घृतं पेयम् ।।। 42 ।।
कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि ।
पामाविसर्पपिडकाकण्डूमदगण्डनुत् सिद्धम् ॥143॥
@च.चि.कुष्ठचिकित्साध्यायः ७
महातितकं घृतम्
सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम् ।।मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ।।
धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे ।
षड्ग्रन्थां सविशालां शतावरींं सारिवे चोभे ॥
वत्सकबीजं वासां मूर्वाममृतां किराततिक्तं च ।
कल्कान् कुर्यान्मतिमान्यष्ट्याहं त्रायमाणां च ॥ कल्कश्चातुर्भागो जलमष्टगुणं रसोऽमृतफलानाम् ।
द्विगुणो घृतात्प्रदेयस्तत्सर्पिः पाययेत्सिद्धम् ॥
कुष्ठानि रक्तपित्तप्रबलान्यर्शांसि रक्तवाहीनि । वीसर्पमम्लपित्तं वातासृक् पाण्डुरोगं च ।। 148 ।। विस्फोटकान्सपामानुन्मादं कामलां ज्वरं कण्डूम् । हृद्रोगगुल्मपिडका असृग्दरं गण्डमालां च ॥
हन्यादेतत् सर्पिः पीतं काले यथाबलं सद्यः । योगशतैरप्यजितान्महाविकारान्महातिक्तम् ।।
( @च.चि.कुष्ठचिकित्साध्यायः ७ /144 - 150 )
महाखदिरं घृतम्
खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले ।
तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः ॥152॥
पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा ।
हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत् ।।153।। सप्तपर्णश्च संक्षुण्णा दशद्रोणेषु वारिणः ।
अष्टभागावशेषं तु कषायमवतारयेत् ।।1 54।।
धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत् । महातिक्तककल्कैस्तु यथोक्तैः पलसंमितैः ।।155।।
निहन्ति सर्वकुष्ठानि पानाभ्यङ्गनिषेवणात् । महाखदिरमित्येतत् परं कुष्ठविकारनुत् ॥156।।
@च.चि.कुष्ठचिकित्साध्यायः ७
दशमूलाद्यघृत , रास्नाघृत , बलाघृत
(क्षयकासशिरःशूलपार्श्वशूलांसतापनुत्)
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
दशमूलघृत
दशमूलशृतात् क्षीरात् सर्पिर्यदुदियान्नवम् ।
सपिप्पलीकं सक्षौद्रं तत् परं स्वरबोधनम् ॥97॥
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
पंचपंचमूलघृत
शिरः पार्श्वांसशूलघ्नं कासश्वासज्वरापहम् ।
पञ्चभिः पञ्चमूलैर्वा शृताद्यदुदियाद्घृतम् ॥98 ।।
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
दुसरे पंचपंचमूलघृत
पञ्चानां पञ्चमूलानां रसे क्षीरचतुर्गुणे ।
सिद्धं सर्पिर्जयत्येतद् यक्ष्मणः सप्तकं बलम् ॥99 ।।
सप्तक या पदाने त्या सात कास, स्वरभेद, श्वास, उचकी, शिरःशूल , पार्श्वशूल , अंसशूल समजले जाते.
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
दुरालभाद्य घृत
दुरालभांं श्वदंष्ट्रां च चतस्त्रः पर्णिनीर्बलाम् | भागान्पलोन्मितान् कृत्वा पलं पर्पटकस्य च ॥ पचेद्दशगुणे तोये दशभागावशेषिते ।
रसे सुपूते द्रव्याणामेषां कल्कान् समावपेत् ।।107 ।। शट्या: पुष्करमूलस्य पिप्पलीत्रायमाणयोः ।
तामलक्या: किरातानां तिक्तस्य कुटजस्य च ॥
फलानां सारिवायाश्च सुपिष्टान् कर्षसंमितान् ।
ततस्तेन घृतप्रस्थं क्षीरद्विगुणितं पचेत् ॥109॥
ज्वरं दाहं भ्रमं कासमंसपार्श्वशिरोरुजम् ।
तृष्णां छर्दिमतीसारमेतत् सर्पिव्यपोहति ।। 10॥
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
जीवंत्यादी घृत
जीवन्तींं मधुकं द्राक्षां फलानि कुटजस्य च ।
शटीं पुष्करमूलं च व्याघ्रींं गोक्षुरकं बलाम् ॥
नीलोत्पलं तामलकींं त्रायमाणां दुरालभाम् ।
पिप्पलींं च समं पिष्ट्वा घृतं वैद्यो विपाचयेत् ॥
एतद् व्याधिसमूहस्य रोगेशस्य समुत्थितम् । रूपमेकादशविधं सर्पिरग्र्यं व्यपोहति ।।113।।
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
मांसादमांसस्वरसे सिद्धं सर्पिः प्रयोजयेत् ।।167।।
सक्षौद्रं पयसा सिद्धं सर्पिर्दशगुणेन वा ।
सिद्धं मधुरकैद्रव्यैर्दशमूलकषायकैः।।168।।
क्षीरमांसरसोपेतैर्घृतं शोषहरं परम् ।
पंचकोलादी घृत
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः || 169॥
सयावशुकैः सक्षीरैः स्त्रोतसां शोधनं घृतम्।
रास्नादी घृत
रास्नाबलागोक्षुरकस्थिरावर्षाभुसाधितम् ॥170।।
जीवन्तीपिप्पलीगर्भं सक्षीरं शोषनुद् घृतम्।
(@च.चि.राजयक्ष्मचिकित्साध्यायः 8 )
हिंग्वाद्य घृत
हिङ्गुसौवर्चलव्योषैर्द्विपलांशैर्घृताढकम् ।
चतुर्गुणे गवां मूत्रे सिद्धमुन्मादनाशनम् ॥34॥
( @च.चि.उन्मादचिकित्साध्यायः 9 )
कल्याणकं घृतम्
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम्।
स्थिरा नतं रजन्यौ द्वे सारिवे द्वे प्रियङ्गुका ।।35।।
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमकेशरम् ।
तालीशपत्रं बृहती मालत्याः कुसुमं नवम् 136 ||
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मकौ ।
अष्टाविंशतिभिः कल्कैरेतैरक्षसमन्वितैः ॥37॥
चतुर्गुणे जले सम्यग् घृतप्रस्थं विपाचयेत् ।
अपस्मारे ज्वरे कासे शोषे मन्देअनले क्षये ॥38॥ वातरक्ते प्रतिश्याये तृतीयकचतुर्थके।
छर्द्यर्शोमूत्रकृच्छ्रेषु विसर्पोपहतेषु च ॥39॥ कण्डूपाण्ड्वामयोन्मादविषमेहगदेषु च । भूतोपहतचित्तानां गद्गदानामचेतसाम् ॥40।।
शस्तं स्त्रीणां च वन्ध्यानां धन्यमायुर्बलप्रदम् । अलक्ष्मीपापरक्षोघ्नं सर्वग्रहविनाशनम् ।। 41।। कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च ।
( @च.चि.उन्मादचिकित्साध्यायः 9 )
महाकल्याणकं घृतम्
एभ्य एव स्थिरादीनि जले पक्त्वैकविंशतिम् ॥42।।
रसे तस्मिन् पचेत् सर्पिर्गृष्टिक्षीरे चतुर्गुणे । वीरार्द्रमाषकाकोलीस्वयंगुप्तर्षभर्ध्दिभिः ॥43॥
मेदया च समैः कल्कैस्तत् स्यात् कल्याणकं महत् ।बृंंहणीयं विशेषेण सन्निपातहरं परम् ॥44॥
( @च.चि.उन्मादचिकित्साध्यायः 9 )
महापैशाचिकं घृतम्
जटिलां पूतनांं केशींं चारटींं मर्कटींं वचाम्।
त्रायमाणां जयां वीरां चोरकं कटुरोहिणीम् ॥45॥ वयःस्थां शूकरींं छत्रामतिच्छत्रां पलङ्कषाम् । महापुरुषदन्तां च कायस्थां नाकुलीद्वयम् ॥46।। कटम्भरां वृश्चिकालींं स्थिरां चाहृत्य तैर्घृतम् ।
सिद्धं चतुर्थकोन्मादग्रहापस्मारनाशनम् ॥47 ॥ महापैशाचिकं नाम घृतमेतद्यथाऽमृतम् ।
बुद्धिस्मृतिकरं चैव बालानां चाङ्गवर्धनम् ॥48॥
( @च.चि.उन्मादचिकित्साध्यायः 9 )
लशुनाद्यं घृतम्
लशुनानां शतं त्रिंशदभयास्त्र्यूषणात् पलम् ।
गवां चर्ममसीप्रस्थो द्व्याढकं क्षीरमूत्रयोः ॥49।। पुराणसर्पिषः प्रस्थ एभिः सिद्धं प्रयोजयेत्।
हिंङ्गुचूर्णपलं शीते दत्वा च मधुमाणिकाम् ॥50॥ तद्दोषागन्तुसंभूतानुन्मादान् विषमज्वरान् । अपस्मारांश्च हन्त्याशु पानाभ्यञ्जननावनैः ।।51।।
( @च.चि.उन्मादचिकित्साध्यायः 9 )
द्वितीय लशुनाद्य घृतम्
लशुनस्याविनष्टस्य तुलार्धं निस्तुषीकृतम् ।
तदर्धं दशमूलस्य द्व्याढकेऽपां विपाचयेत् ।।52।।
पादशेषे घृतप्रस्थं लशुनस्य रसं तथा । कोलमूलकवृक्षाम्लमातुलुङ्गार्द्रकै रसैः ।।53।।
दाडिमाम्बुसुरामस्तुकाञ्जिकाम्लैस्तदर्धिकैः। साधयेत्त्रिफलादारुलवणव्योषदीप्यकैः ।।54।।
यवानीचव्यहिङ्ग्वम्लवेतसैश्च पलार्धिकैः ।
सिद्धमेतत् पिबेच्छूलगुल्मार्शोजठरापहम् ॥55।।
ब्रध्नपाण्ड्वामयप्लीहयोनिदोषज्वरक्रिमीन् । वातश्लेष्मामयान् सर्वानुन्मादांश्चापकर्षति ॥56॥
( @च.चि.उन्मादचिकित्साध्यायः 9 )
उन्माद नाशक घृत योग
हिङ्गुना हिङ्गुपर्ण्या च सकायस्थ वयःस्थया ।
सिद्धं सर्पिर्हितं तद्वद वयःस्था हिङ्गु चोरकैः ।।57।। केवलं सिद्धमेभिर्वा पुराणं पाययेद् घृतम् ।
पाययित्वोत्तमांं मात्रां रुन्ध्याद् गृहेऽपि वा।
( @च.चि.उन्मादचिकित्साध्यायः 9 )
पञ्चगव्यं घृतम्
गोशकृद्रसदध्यम्लक्षीरमूत्रैः समैर्घृतम् ।
सिद्धं पिबेदपस्मारकामलाज्वरनाशनम् ॥17॥
(@च.चि.अपस्मारचिकित्साध्याय 10)
महापञ्चगव्यं घृतम्
द्वे पञ्चमूल्यौ त्रिफला रजन्यौ कुटजत्वचम् ।सप्तपर्णमपामार्गं नीलिनींं कटुरोहिणीम् ॥18॥
शम्पाकं फल्गुमूलं च पौष्करं सदुरालभम् ।
द्विपलानि जलद्रोणे पक्त्वा पादावशेषिते ॥ १९॥
भार्गींं पाठांं त्रिकटुकं त्रिवृतां निचुलानि च ।
श्रेयसीमाढकी मूर्वांं दन्तीं भूनिम्बचित्रकौ ॥20॥
द्वे सारिवे रोहिषं च भूतीकं मदयन्तिकाम्। क्षिपेत्पिष्टवाऽक्षमात्राणि तेन प्रस्थं घृतात् पचेत् ॥ गोशकृद्रसदध्यमलक्षीरमूत्रैश्च तत्समैः ।
पञ्चगव्यमिति ख्यातं महत्तदमृतोपमम् ॥22॥
अपस्मारे तथोन्मादे श्ययथावुदरेषु च ।
गुल्मार्शः पाण्डुरोगेषु कामलायां हलीमके ॥23॥ शस्यते घृतमेतत्तु प्रयोक्तव्यं दिने दिने । अलक्ष्मीग्रहरोगघ्नं चातुर्थकविनाशनम् ॥24॥
ब्राह्मी घृत
ब्राह्मीरसवचाकुष्ठशङ्खपुष्पीभिरेव च ।
पुराणं घृतमुन्मादालक्ष्म्यपस्मारपापनुत् ॥25 ।।
(@च.चि.अपस्मारचिकित्साध्याय 10)
सैंधवादी घृत
घृतं सैन्धवहिङ्गुभ्यां वार्षे बास्ते चतुर्गुणे ।
मूत्रे सिद्धमपस्मारहृद्ग्रहामयनाशनम् ॥26॥
(@च.चि.अपस्मारचिकित्साध्याय 10)
वचादी घृत
वचाशम्पाककैटर्यवयःस्थाहिङ्गुचोरकैः ।
सिद्धं पलङ्कषायुक्तैर्वातश्लेष्मात्मके घृतम् ॥27॥
(@च.चि.अपस्मारचिकित्साध्याय 10)
जीवनीय यमक प्रयोग
तैलप्रस्थं घृतप्रस्थं जीवनीयैः पलोन्मितः ।
क्षीरद्रोणे पचेत् सिद्धमपस्मारविनाशनम् ।।28।।
(@च.चि.अपस्मारचिकित्साध्याय 10)
जीवनीय घृत
कंसे क्षीरेक्षुरसयोः काश्मर्येऽष्टगुणे रसे । कार्षिकैर्जीवनीयैश्च घृतप्रस्थं विपाचयेत् ॥29॥
वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति ।
(@च.चि.अपस्मारचिकित्साध्याय 10)
काशादी घृत
काशविदारीक्षुकुशक्वाथशृतं घृतम् ॥30॥
वातपित्तोद्भवं क्षिप्रमपस्मारं नियच्छति ।
(@च.चि.अपस्मारचिकित्साध्याय 10)
आमलकादी घृत
मधुकद्विपले कल्के द्रोणे चामलकीरसात् ।
तद्वत् सिद्धो घृतप्रस्थः पित्तापस्मारभेषजम् ।।31 ।।
(@च.चि.अपस्मारचिकित्साध्याय 10)
न्यग्रोधादी घृत
न्यग्रोधोदुम्बराश्वत्थ प्लक्षशालप्रियङ्गुभिः । तालमस्तकजम्बू त्वक्प्रियालैश्च सपद्मकैः ॥31॥
साश्वकर्णैः शृतात् क्षीरादद्याज्जातेन सर्पिषा ।
शाल्योदनं क्षतोरस्कः क्षीणशुकश्च मानवः ॥32॥
(@च.चि.क्षतक्षीणचिकित्साध्यायः ११)
यष्ट्यादी घृत
यष्ट्याह्वनागबलयोः क्वाथे क्षीरसमं घृत्तम् । पयस्यापिप्पलीवांशीकल्कसिद्धं क्षते शुभम् ॥33॥
(@च.चि.क्षतक्षीणचिकित्साध्यायः ११)
कोललाक्षादी घृत
कोललाक्षारसे तद्वत् श्रीराष्टगुणसाधितम् ।
कल्कैः कट्वङ्गदार्वीत्वग्वत्सकत्वक्फलैर्घृतम् ।।
(@च.चि.क्षतक्षीणचिकित्साध्यायः ११)
अमृतप्राशघृतम्
जीवकर्षभकौ वीरां जीवन्तीं नागरं शटीम् ।
चतस्त्रः पणिनीर्मेदे काकोल्यौ द्वे निदिग्धिके ।
पुनर्नवे द्वे मधुकमात्मगुप्तां शतावरीम् ।
ऋद्धिंं परूषकं भार्गींं मृद्धीकांं बृहतीं तथा ॥36 ।। शूङ्गाटकं तामलकीं पयस्यां पिप्पलींं बलाम् । बदराक्षोटखर्जूरवातामभिषुकाण्यपि ।।37।।
फलानि चैवमादीनि कल्कान् कुर्वीत कार्षिकान् । धात्रीरसविदारीक्षुच्छागमांसरसं पयः॥38॥
कुर्यात् प्रस्थोन्मितं तेन घृतप्रस्थं विपाचयेत् ।
प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥39॥ द्विकार्षिकाणि पत्रैलाहेमत्वमरिचानि च।
विनीय चूर्णितं तस्माल्लिह्यान्मात्रां सदा नरः ||40||
अमृतप्राशमित्येतन्नराणाममृतं घृतम् ।
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना ॥41॥ नष्टशुक्रक्षतक्षीणदुर्बलव्याधिकर्शितान् ।
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्च बृंहयेत् ॥42।। कासहिक्काज्वरश्वासदाहतृष्णास्त्रपित्तनुत् ।
पुत्रदं वमिमूर्च्छाहृद् योनिमूत्रामयापहम् ॥43।।
(@च.चि.क्षतक्षीणचिकित्साध्यायः ११)
श्वद॑ष्ट्रादिघृतम्
श्रदंष्ट्रोशीरमञ्जिष्ठाबलाकाश्मर्यकत्तृणम् ।
दर्भमूलं पृथक्पपर्णी पलाशर्षभकौ स्थिराम् ॥44॥ पलिकं साधयेत्तेषां रसे क्षीरचतुर्गुणे ।
कल्कः स्वगुप्ताजीवन्तीमेदर्षभकजीवकैः ।।45।। शतावर्यूध्दिमृद्वीकाशर्कराश्रावणीबिसैः ।
प्रस्थः सिद्धो घृताद्वातपित्तहृद्भवशूलनुत् ॥46॥ मूत्रकृच्छ्र प्रमेहार्श: कासशोषक्षयापहः ।
धनुः स्त्रीमद्यभाराध्यखिन्नानां बलमांसदः ॥47॥
(@च.चि.क्षतक्षीणचिकित्साध्यायः ११)
धात्रीफलाद्य घृत
धात्रीफलविदारीक्षुजीवनीयरसैर्घृतम् ।
अजागोपयसोश्चैव सप्त प्रस्थान् पचेद्भिषक् ।।50।। सिद्धशीते सिताक्षौद्रप्रस्थं विनयेच्च तत् ।
यक्ष्मापस्मार पित्तासृक्कासमेहक्षयापहम् ।।51।। वयःस्थापनमायुष्यं मांसशुक्रबलप्रदम् ।
घृतं तु पित्तेऽभ्यधिके लिह्याद्वातेऽधिके पिबेत् ।।52।।
लीढं निर्वापयेत् पित्तमल्पत्वाद्धन्ति नानलम् । आक्रामत्यनिलं पीतमूष्माणं निरुणद्धि च ॥
(@च.चि.क्षतक्षीणचिकित्साध्यायः ११)
प्रथम चित्रकादी घृत
सचित्रकं धान्ययवान्यजाजीसौवर्चलं त्र्यूषणवेतसाम्लम् ।
बिल्वात् फलं दाडिमयावशूकौ सपिप्पलीमूलमथापि चव्यम् ।।55।।
पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात् ।
अर्शांसि गुल्मं श्वयथुं च कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम् ॥56॥
( @च.चि.श्वयथुचिकित्साध्यायः १२ )
द्वितीय चित्रकादी घृत
पिबेद् घृतं वाऽष्टगुणाम्बुसिद्धं सचित्रकक्षारमुदारवीर्यम् ।
कल्याणकं वाऽपि सपञ्चगव्यं तिक्तं महद्वाऽप्यथ तिक्तकं वा ।। 57 ।।
( @च.चि.श्वयथुचिकित्साध्यायः १२ )
चित्रकघृतम्
क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन ।
तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्र्यम् ॥58।।
अर्शांसि सामानिलगुल्ममेहांश्चैतन्निहन्त्यग्निबलप्रदं च
तक्रेण चाद्यात् सघृतेन तेन भोज्यानि सिद्धामथवा
यवागूम् ।।59।।
( @च.चि.श्वयथुचिकित्साध्यायः १२ )
पंचकोलघृत
रुक्षाणां बहुवातानांं तथा संशोधनार्थिनाम् ॥111॥ दीपनीयानि सर्पांषि जठरघ्नानि चक्ष्महे |
पिप्पली पिप्पलीमूलचव्यचित्रकनागरः ।।112।। सक्षारैरर्धपलिकैद्ववि प्रस्थं सर्पिषः पचेत् ।
कल्कै द्विपञ्चमूलस्य तुलार्धस्वरसेन च ।।1 13।। दधिमण्डाढकोपेतं तत् सर्पिर्जठरापहम् ।
श्वयथुं वातविष्टम्भं गुल्मार्शांसि च नाशयेत् ।।1 14 ||
( @च.चि.श्वयथुचिकित्साध्यायः १२ )
चित्रक घृत
चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात् पले ।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ।।1 16॥
(@च.चि.उदरचिकित्साध्यायः १३ )
यवादी घृत
यवकोलकुलत्थानां पञ्चमूलरसेन च।
सुरासौवीरकाभ्यां च सिद्धं वाऽपि पिबेद् घृतम् ॥117॥
(@च.चि.उदरचिकित्साध्यायः १३ )
प्रथम स्नुहीक्षीर घृत
क्षीरद्रोणं सुधाक्षीरप्रस्थार्धसहितं दधि ।
जातं विमथ्य तद्युक्त्या त्रिवृत्सिद्धं पिबेद् घृतम् ।।
(@च.चि.उदरचिकित्साध्यायः १३ )
द्वितीय स्नुहीक्षीर घृत
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् । स्नुक्क्षीरपलकल्केन त्रिवृताषट्पलेन च ॥139॥
गुल्मानां गरदोषाणामुदराणां च शान्तये ।
(@च.चि.उदरचिकित्साध्यायः १३ )
तृतीय स्नुहीक्षीर घृत
दधिमण्डाढके सिद्धात् स्नुक्क्षीरपलकल्कितात् ॥140॥
घृतप्रस्थात् पिबेन्मात्रां तद्वज्जठरशान्तये ।
(@च.चि.उदरचिकित्साध्यायः १३ )
पीलुकल्कोपसिद्धं वा घृतमानाहभेदनम् ।
गुल्मघ्नं नीलिनीसर्पि: स्नेहं वा मिश्रकं पिबेत् ॥145।।
(@च.चि.उदरचिकित्साध्यायः १३ )
प्रथम पिप्पल्यादी घृत
पिप्पली पिप्पलीमूलं चित्रको हस्तिपिप्पली
शृङ्गवेरयवक्षारौ तैः सिद्धं वा पिबेद्घृतम् ।।104॥
चव्यचित्रकसिद्धं वा गुडक्षारसमन्वितम् । पिप्पलीमूलसिद्धं वा सगुडक्षारनागरम् ।।105।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
द्वितीय पिप्पल्यादी घृत
पिप्पलीपिप्पलीमूलदधिदाडिमधान्यकैः ।
सिद्धं सर्पिर्विधातव्यं वातवर्चोविबन्धनुत् ।।106।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
चव्याद्य घृत
चव्यं त्रिकटुकं पाठां क्षारं कुस्तुम्बुरूणि च।
यवानीं पिप्पलीमूलमुभे च विडसैन्धवे ।।107।।
चित्रकं बिल्वमभयां पिष्टवा सर्पिर्विपाचयेत् ।
शकृद्वातानुलोम्यार्थं जाते दध्नि चतुर्गुणे ॥108।। प्रवाहिकां गुदभ्रंशं मूत्रकृच्छ्रं परिस्त्रवम् । गुदवङ्क्षणशूलं च घृतमेतद् व्यपोहति ।।109।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
नागराद्य घृत
नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली ।
श्वदंष्ट्रां पिप्पली धान्यं बिल्वं पाठा यवानिका ॥
चाङ्गेरीस्वरसे सर्पिः कल्कैरेतैर्विपाचयेत् ।
चतुर्गुणेन दध्ना च तद् घृतं कफवातनुत् ।।1 1 1 ।।
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम् । गुदभ्रंशार्तिमानाहं घृतमेतद् व्यपोहति ।।112।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
तृतीय पिप्पल्यादी घृत
पिप्पलींं नागरं पाठां श्रदंष्ट्रां च पृथक् पृथक् ।भागांस्त्रिपलिकान् कृत्वा कषायमुपकल्पयेत् ॥ गण्डीरं पिप्पलीमूलं व्योषं चव्यं च चित्रकम् ।
पिष्ट्वा कषाये विनयेत् पूते द्विपलिकं भिषक् ॥
पलानि सर्पिषस्तस्मिश्चत्वारिंशत् प्रदापयेत् ।
चाङ्गेरीस्वरसं तुल्यं सर्पिषा दधि षड्गुणम् ।।115।। मृद्वग्निना ततः साध्यं सिद्धं सर्पिर्निधापयेत् ।
तदाहारे विधातव्यं पाने प्रायोगिके विधौ ॥ ग्रहण्यर्शोविकारघ्नं गुल्महृद्रोगनाशनम् । शोथप्लीहोदरानाहमूत्रकृच्छ्रज्वरापहम् ।।1 17।। कासहिक्कारुचिश्वाससूदनं पार्श्वशूलनुत् । बलपुष्टिकरं वर्ण्यमग्निसंदीपनं परम् ॥118॥
(@च.चि.अर्शचिकित्साध्यायः 14 )
रक्तेऽतिवर्तमाने शूले च घृतं विधातव्यम् ।।196।।
कुटजफलाद्य घृत
कुटजफलवल्ककेशरनीलोत्पललोध्रधातकीकल्कैः । सिद्धं घृतं विधेयं शूले रक्तार्शसांं भिषजा ||197||
सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु ।
रक्तं सशूलमथवा निदिग्धिका दुग्धिकासिद्धम् ॥198।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
ह्रीबेर घृत
ह्रीबेरमुत्पलं लोध्रं समङ्गाचव्यचन्दनम् ।
पाठा सातिविषा बिल्वं धातकी देवदारु च ॥230।।दार्वीत्वङ् नागरं मांसी मुस्तं क्षारो यवाग्रजः ।
चित्रकश्चेति पेष्याणि चांंङ्गेरीस्वरसे घृतम् ॥
ऐकध्यं साधयेत् सर्वं तत्सर्पिः परमौषधम् । अर्शोऽतिसारग्रहणीपाण्डुरोगे ज्वरेऽरुचौ ||232।। मूत्रकृच्छ्रे गुदभ्रंशे बस्त्यानाहे प्रवाहणे। पिच्छास्त्रावेऽर्शसां शूले योज्यमेतत्त्रिदोषनुत् ।।233।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
सुनिषण्णक चांगेरी घृत
अवाक्पुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः । न्यग्रोधोदुम्बराश्वत्थ शुङ्गाश्च द्विपलोन्मिताः ॥
कषाय एषां पेष्यास्तु जीवन्ती कटुरोहिणी ।
पिप्पली पिप्पलीमूलं नागरं सुरदारु च ॥235।।
कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमुत्पलम् ।
कट्फलं चित्रको मुस्तं प्रियङ्ग्वतिविषास्थिराः ॥
पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका ।
बिल्वं मोचरसः पाठा भागाः कर्षसमन्विताः ॥
चतुष्प्रस्थे शृतं प्रस्थं कषायमवतारयेत् ।
त्रिंशत्पलानि प्रस्थोऽत्र विज्ञेयो द्विपलाधिकः ॥238॥
सुनिषण्णकचाङ्गेर्योः प्रस्थौ द्वौ स्वरसस्य च । सर्वैरेतैर्यथोद्दिष्टर्घृतप्रस्थं विपाचयेत् ॥239।।
एतदर्श:स्वतीसारे रक्तस्त्रावे त्रिदोषजे ।
प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च ॥240 |
उत्थाने चातिबहुशः शोथशूले गुदाश्रये ।
मूत्रग्रहे मूढवाते मन्देऽग्नावरुचावपि ।।241 ।।
प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्धनम् । विविधेष्यन्नपानेषु केवलं वा निरत्ययम् ॥242।।
(@च.चि.अर्शचिकित्साध्यायः 14 )
,
दशमूलाद्यं घृतम्
द्वे पञ्चमूले सरलं देवदारु सनागरम् ।
पिप्पलींं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥82|| शणबीजं यवान् कोलान् कुलत्थान् सुषवीं तथा ।पाचयेदारनालेन दध्ना सौवीरकेण वा ।।83।। चतुर्भागावशेषेण पचेत्तेन घृताढकम् । स्वर्जिकायावशूकाख्यौ क्षारौ दत्त्वा च युक्तितः ।।84।। सैन्धवौद्भिदसामुद्रविडानां रोमकस्य च । ससौवर्चलपाक्यानां भागान्द्विपलिकान् पृथक् ।।85॥ विनीय चूर्णितान् तस्मात् पाययेत् प्रसृतं बुधः ।
करोत्यग्निं बलं वर्णं वातघ्नं भुक्तपाचनम् ।।86।।
(@ च.चि.ग्रहणीदोषचिकित्साध्यायः 15)
त्र्यूषणाद्यं घृतम्
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात्पले ।
सर्पिषोऽष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत् ॥ 87।।
(@ च.चि.ग्रहणीदोषचिकित्साध्यायः 15)
पंचमूलाद्य घृत
पञ्चमूलाभयाव्योषपिप्पलीमूलसैन्धवैः ।रास्नाक्षारद्वयाजाजीविडङ्गशटिभि घृतम् ॥88॥
शुक्तेन मातुलुङ्गस्य स्वरसेनार्द्रकस्य च । शुष्कमूलककोलाम्बुचुक्रिकादाडिमस्य च || 89 || तक्रमस्तुसुरामण्डसौवीरकतुषोदकैः ।
काञ्जिकेन च तत् पक्कमग्निदीप्तिकरं परम् ॥90॥ शूलगुल्मोदरश्वासकासानिलकफापहम् ।
सबीजपूरकरसं सिद्धं वा पाययेद् घृतम् ।।91।। सिद्धमभ्यञ्जनार्थं वा तैलमेतैः प्रयोजयेत् । एतेषामौषधानां वा पिबेच्चूर्णं सुखाम्बुना ।।92।।
वाते श्लेष्मावृते सामे कफे वा वायुनोद्धते ।
दद्याच्चूर्णं पाचनार्थमग्निसन्दीपनं परम् ।।93।।
(@ च.चि.ग्रहणीदोषचिकित्साध्यायः 15)
चन्दनाद्यं घृतम्
चन्दनं पद्मकोशीरं पाठां मूर्वांं कुटन्नटम् ।
षड्ग्रन्था सारिवास्फोतासप्तपर्णाटरूषकान् ।।125।।पटोलोदुम्बराश्वत्थवटप्लक्षकपीतकान्।
कटुकां रोहिणींं मुस्तं निम्बं च द्विपलांशिकम् ।।126।। द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत् । किराततिक्तेन्द्रयववीरामागधिकोत्पलैः ॥127॥ कल्फैरक्षसमैः पेयं तत् पित्तग्रहणीगदे ।
तिक्तकं यद् घृतं चोक्तं कौष्ठिके तच्च दापयेत् ॥128।।
(@ च.चि.ग्रहणीदोषचिकित्साध्यायः 15)
पिंपळीमूलाद्य घृत
समूलां पिप्पलींं क्षारौ द्वौ पञ्च लवणानि च । मातुलुङ्गाभयारास्नाशटीमरिचनागरम् ।।168।।
कृत्वा समांशं तच्चूर्णं पिबेत् प्रातः सुखाम्बुना ।
श्लैष्मिके ग्रहणीदोषे बलवर्णाग्निवर्धनम् ॥
एतैरेवौषधैः सिद्धं सर्पिः पेयं समारुते।
गौल्मिके षट्पलं प्रोक्तं भल्लातकघृतं च यत् ॥170॥
(@ च.चि.ग्रहणीदोषचिकित्साध्यायः 15)
क्षारघृतम्
बिडं कालोत्थलवणं सर्जिकायवशूकजम् ।
सप्तलांं कण्टकारींं च चित्रकं चेति दाहयेत् ॥ 71।।
सप्तकृत्वः स्रुतस्यास्य क्षारस्य ह्याढकेन तु ।
आढकं सर्पिषः पक्त्वा पिबेदग्निविवर्धनम् ॥72।।
(@ च.चि.ग्रहणीदोषचिकित्साध्यायः 15)
पञ्चगव्यं महातिक्तं कल्याणकमथापि वा ।
स्नेहनार्थं घृतं दद्यात् कामलापाण्डुरोगिणे ।।43 ।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
दाडिमाद्यं घृतम्
दाडिमात् कुडवो धान्यात् कुडवार्धं पलं पलम् । चित्रकाच्छृङ्गवेराच्च पिप्पल्यष्टमिका तथा ॥
तैः कल्कैविंशतिपलं घृतस्य सलिलाढके।
सिद्धं हृत्पाण्डुगुल्मार्श: प्लीहवातकफार्तिनुत् ॥45॥ दीपनं श्वासकासघ्नं मूढवाते च शस्यते ।
दुःखप्रसविनीनां च वन्ध्यानां चैव गर्भदम् ॥46॥
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
कटुकाद्य घृत
कटुकारोहिणी मुस्तं हरिद्रे वत्सकात् पलम् ।
पटोलं चन्दनं मूर्वा त्रायमाणा दुरालभा ॥47॥
कृष्णा पर्पटको निम्बो भूनिम्बो देवदारु च।
तैः कार्षिकर्घृतप्रस्थः सिद्धः क्षीरचतुर्गुणः ॥48|| रक्तपित्तं ज्वरं दाहं श्वयथुं सभगन्दरम् । अर्शांस्यसृग्दरं चैव हन्ति विस्फोटकांस्तथा ॥49॥
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
पथ्याघृतम्
पथ्याशतरसे पथ्यावृन्तार्धशतकल्कवान् ।
प्रस्थः सिद्धो घृतात् पेयः स पाण्ड्वामयगुल्मनुत् ॥50।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
दन्तीघृतम्
दन्त्याश्चतुष्पलरसे पिष्ठैर्दन्तीशलाटुभिः ।
तद्वत्प्रस्थो घृतात्सिद्धः प्लीहपाण्ड्वर्तिशोफजित्
।।51।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
द्राक्षाघृतम्
पुराणसर्पिषः प्रस्थो द्राक्षार्धप्रस्थसाधितः । कामलागुल्मपाण्ड्वर्तिज्वरमेहोदरापहः ।।5 2 ।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
हरिद्रादिघृतम्
हरिद्रात्रिफलानिम्बबलामधुकसाधितम् ।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ॥53।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
दार्वीघृत
गोमूत्रे द्विगुणे दार्व्याः कल्काक्षद्वयसाधितः ।।54।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
कालीयक घृत
दार्व्याः पञ्चपलक्वाथे कल्के कालीयके परः ॥ 54।।माहिषात् सर्पिषः प्रस्थः पूर्वः पूर्वे परे परः ।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
व्योषाद्य घृत
व्योषं बिल्वं हरिद्रे द्वे त्रिफला द्वे पुनर्नवे ।
मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ।।1 19।। वृश्चिकाली च भार्गी च सक्षीरैस्तैः समर्घृतम् ।
साधयित्वा पिबेद्युक्त्या नरो मुद्दोषपीडितः ।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
केशराद्य घृत
केशरयष्ट्याह्नपिप्पलीक्षारशाद्वलैः ।
साधयित्वा पिबेद्युक्त्या नरो मुद्दोषपीडितः ।।
(@च.चि.पाण्डुरोगचिकित्साध्यायः १६ )
दशमूलादी घृत
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत् । कृष्णसौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः ।।140॥
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत् ।
(@च.चि.हिक्काश्वासचिकित्साध्यायः 17)
तेजोवत्यादिघृतम्
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी ॥141।।
भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी ।
सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका ||142॥ तालीसपत्रं जीवन्ती वचा तैरक्षसंमितैः ।
हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे ।।143 ।। एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः । शोथानिलार्शोग्रहणीहत्पार्श्वरूज एव च ॥144॥
(@च.चि.हिक्काश्वासचिकित्साध्यायः 17)
मनः शिलादिघृतम्
मनः शिलासर्जरसलाक्षारजनिपद्मकैः ।
मञ्जिष्ठालैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः ।।145।।
(@च.चि.हिक्काश्वासचिकित्साध्यायः 17)
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद् घृतम्।
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा ।।1 46॥
(@च.चि.हिक्काश्वासचिकित्साध्यायः 17)
कण्टकारीघृतम्
कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे ।
प्रस्थः सिद्धो घृताद्वातकासनुद्वह्रिदीपनः॥35॥
(@च.चि.कासचिकित्साध्यायः 18 )
पिप्पल्यादिघृतम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः।
धान्यपाठावचारास्नायष्ट्याह्व क्षारहिङ्गुभिः ॥36॥ कोलमात्रैर्घृतप्रस्थाद् दशमूलीरसाढके ।
सिद्धाच्चतुर्थिकां पीत्वा पेयामण्डं पिबेदनु ॥ 37 ।। तच्छ्वासकासहृत्पार्श्वग्रहणीदोषगुल्मनुत् । पिप्पल्याद्यं घृतं चैतदात्रेयेण प्रकीर्तितम् ॥38॥
(@च.चि.कासचिकित्साध्यायः 18 )
त्र्यूषणाद्यं घृतम्
त्र्यूषणं त्रिफलां द्राक्षां काश्मर्याणि परूषकम् ।
द्वे पाठे देवदार्वृद्धिंं स्वगुप्तां चित्रकं शटीम् ।।
व्याघ्रींं तामलकींं मेदांं काकनासां शतावरीम् ।
त्रिकण्टकं विदारींं च पिष्ट्वा कर्षसमं घृतात् ॥
प्रस्थं चतुर्गुणे क्षीरे सिद्धं कासहरं पिबेत् । ज्वरगुल्मारुचिप्लीहशिरोहृत्पार्श्वशूलनुत् ॥41॥ कामलार्शोऽनिलाष्ठीलाक्षतशोषक्षयापहम् ।
त्र्यूषणं नाम विख्यातमेतद् घृतमनुत्तमम् ॥42।।
(@च.चि.कासचिकित्साध्यायः 18 )
रास्नाघृतम्
द्रोणेऽपां साधयेद्रास्नां दशमूलीं शतावरीम् ।
पलिकां माणिकांशांस्तु कुलत्थान्बदरान्यवान् ॥
तुलार्धं चाजमांसस्य पादशेषेण तेन च ।
घृताढकं समक्षीरं जीवनीयैः पलोन्मितैः ॥ 4 4॥
सिद्धं तद्दशभिः कल्कैर्नस्यपानानुवासनैः ।
समीक्ष्य वातरोगेषु यथावस्थं प्रयोजयेत् ।।45 ।। पञ्चकासान् शिरः कम्पं शूलं वंक्षणयोनिजम् । सर्वाङ्गैकाङ्गरोगांश्च सप्लीहोर्ध्वानिलाञ्जयेत् ॥
(@च.चि.कासचिकित्साध्यायः 18 )
पित्तकासचिकित्सा
महिष्यजाविगोक्षीरधात्रीफलरसैः समैः ।
सर्पिः सिद्धं पिबेद्युक्त्या पित्तकासनिबर्हणम् ।।107।।
(@च.चि.कासचिकित्साध्यायः 18 )
दशमूलादिघृतम्
दशमूलाढके प्रस्थं घृतस्याक्षसमैः पचेत् ।
पुष्कराह्वशटीबिल्वसुरसव्योषहिङ्गुभिः ।।123।। पेयानुपानं तत् पेयं कासे वातकफात्मके ।
श्वासरोगेषु सर्वेषु कफवातात्मकेषु च ।।124।।
(@च.चि.कासचिकित्साध्यायः 18 )
कण्टकारीघृतम्
समूलफलपत्रायाः कण्टकार्या रसाढके ।
घृतप्रस्थं बलाव्योषविडङ्गशटिचित्रकैः ।।125।।
सौवर्चलयवक्षारपिप्पलीमूलपौष्करैः।
वृश्चीरबृहतीपथ्यायवानीदाडिमर्धिभिः ॥126॥
द्राक्षापुनर्नवाचव्यदुरालम्भाम्लवेतसैः । शृङ्गीतामलकीभार्गीरास्नागोक्षुरकैः पचेत् ।।127 ।। कल्कैस्तत्सर्वकासेषु हिक्काश्वासेषु शस्यते । कण्टकारीघृतं ह्येतत् कफव्याधिनिसूदनम् ॥
(@च.चि.कासचिकित्साध्यायः 18 )
कुलत्थादी घृत
कुलत्थरसयुक्तं वा पञ्चकोलशृतं घृतम् ।
पाययेत् कफजे कासे हिक्काश्वासे च शस्यते ॥129॥
(@च.चि.कासचिकित्साध्यायः 18 )
द्विपंचमूलादी घृत
द्विपञ्चमूलीत्रिफलाचविकाभार्गिचित्रकैः।
कुलत्थपिप्पलीमूलपाठाकोलयवैर्जले ।।158।।
शृतैर्नागरदुःस्पर्शापिप्पलीशटिपौष्करैः।
कल्कैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् ।।159।।
सिद्धेऽस्मिंंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च । दत्त्वा युक्त्या पिबेन्मात्रां क्षयकासनि पीडितः ।
(@च.चि.कासचिकित्साध्यायः 18 )
गुडूच्यादी घृत
गुडूचीं पिप्पलींं मूर्वां हरिद्रां श्रेयसीं वचाम्।
निदिग्धिकां कासमर्दं पाठां चित्रकनागरम् ।।61।।
जले चतुर्गुणे पक्त्वा पादशेषेण तत्समम् ।
सिद्धं सर्पिः पिबेद्गुल्मश्वासार्तिक्षयकासनुत् ।। 62।।
(@च.चि.कासचिकित्साध्यायः 18 )
कासमर्दादी घृत
कासमर्दाभयामुस्तपाठाकट्फलनागरैः।
पिप्पलीकटुका द्राक्षाकाश्मर्यसुरसैस्तथा ।।163॥ अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षारसाढके ।पचेच्छोषज्वरप्लीहसर्वकासहरं शिवम् ।।164।।
(@च.चि.कासचिकित्साध्यायः 18 )
विविध घृतयोग
धात्रीफलैः क्षीरसिद्धैः सर्पिर्वाऽप्यवचूर्णितम् ।
द्विगुणे दाडिमरसे विपक्वं व्योषसंयुतम् ।।165।। पिबेदुपरि भक्तस्य यवक्षारघृतं नरः ।
पिप्पलीगुडसिद्धं या छागक्षीरयुतं घृतम् ।।166॥ एतान्यग्निविवृद्धयर्थं सर्पींषि क्षयकासिनाम् । स्युर्दोषबद्धकोष्ठोरः स्त्रोतसां च विशुद्धये ॥167।।
(@च.चि.कासचिकित्साध्यायः 18 )
चांगेरी घृत
चाङ्गेरीकोलदध्यम्लनागरक्षारसंयुतम् ।
घृतमुत्क्वथितं पेयं गुदभ्रंशरुजापहम् ।।43॥
(च.चि@अतिसारचिकित्साध्यायः 19)
चव्यादी घृत
सचव्यपिप्पलीमूलं सव्योषविडदाडिमम् ।
पेयमम्लं घृतं युक्त्या सधान्याजाजिचित्रकम् ||44।।
गुदभ्रंशे चव्यादिघृतम्
(च.चि@अतिसारचिकित्साध्यायः 19)
दार्व्यादी घृत
त्वक् च दारुहरिद्रायाः कुटजस्य फलानि च।
पिप्पली शृङबेरं च द्राक्षा कटुकरोहिणी ।।80।।
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम् ।
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् ।।81।।
(च.चि@अतिसारचिकित्साध्यायः 19)
शतावरीघृत
रक्तं विट्सहितं पूर्वं पश्चाद्वा योऽतिसार्यते।
शतावरीघृतं तस्य लेहार्थमुपकल्पयेत् ॥97॥
(च.चि@अतिसारचिकित्साध्यायः 19)
(च.चि @विसर्पचिकित्साध्यायः 21)
महातिक्त घृत
त्रायमाणा घृत
दूर्वा घृत
दूर्वास्वरससिध्दं च घृतं स्याद् व्रणरोपणम् ।। 97।।
(च.चि @विसर्पचिकित्साध्यायः 21)
अमृत घृत
शिरीषत्वक् त्रिकटुकं त्रिफलां चन्दनोत्पले ॥242।।
द्वे बले सारिवास्फोतासुरभीनिम्बपाटलाः । बन्धुजीवाढकीमूर्वावासासुरसवत्सकान् ॥243 ।।
पाठाङ्कोलाश्वगन्धार्कमूलयष्ट्याह्वपद्मकान् ।
विशालां बृहतींं लाक्षां कोविदारं शतावरीम् ।।245।।
कटभीदन्त्यपामार्गान् पृश्निपर्णीं रसाञ्जनम् ।
श्वेतभण्डाश्वखुरकौ कुष्ठदारूप्रियङ्गुकान् ।।245।।
विदारींं मधुकात् सारं करञ्जस्य फलत्वचौ।
रजन्यौ लोध्रमक्षांशं पिष्ट्वा साध्यं घृताढकम् ।। तुल्याम्बुच्छागगोमूत्रत्र्याढके तद्विषापहम् । अपस्मारक्षयोन्मादभूतग्रहगरोदरम् ॥247 ।। पाण्डुरोगक्रिमीगुल्मप्लीहोरुस्तम्भकामलाः । हनुस्कन्धग्रहादींश्च पानाभ्यञ्जननावनैः ॥248॥ हन्यात् संजीवयेच्चापि विषोद्बन्धमृतान्नरान् । नाम्नेदममृतं सर्वविषाणां स्याद् घृतोत्तमम् ॥
(च.चि.@विषचिकित्साध्यायः 23)
स्थिरादी घृत
स्थिरादिवर्गस्य पुनर्नवायाः शम्पाकपूतीककरञ्जयोश्च ।
सिद्धः कषाये द्विपलांशिकानां प्रस्थो घृतात् स्यात् प्रतिरुद्धवाते ॥23॥
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
श्वदंष्ट्रादी घृत
घृतं श्रदंष्ट्रास्वरसेन सिद्धं क्षीरेण चैवाष्टगुणेन पेयम् । स्थिरादिकानां कनकादिकानामेकैकशौ वा विधिनैव तेन ॥74॥ (रक्तज मूत्रकृच्छ्र चिकित्सा )
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
हरीतक्यादी घृत
हरीतकीनागरपुष्कराह्वैर्वयःकयस्थालवणैश्च कल्कैः ।
सहिङ्गुभिः साधितमग्य्रसर्पिर्गुल्मे सहृत्पार्श्वगदेऽनिलोत्थे ॥83॥
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
त्र्यूषणादी घृत
स्यात्त्र्यूषणं द्वे त्रिफले सपाठे निदिग्धिकागोक्षुरकौ बले द्वे।
ऋद्धिस्त्रुटिस्तामलकी स्वगुप्ता मेदे मधूकं मधुकं स्थिरा च ॥87॥
शतावरी जीवकपृश्निपर्ण्यौ द्रव्यैरिमैरक्षसमैः सुपिष्टैः । प्रस्थं घृतस्येह पचेद्विधिज्ञः प्रस्थेन दग्धा त्वथ माहिषेण
॥88॥
मात्रां पलं चार्धपलं पिचुं वा प्रयोजयेन्माक्षिकसंप्रयुक्ताम् । श्वासे सकासे त्वथ पाण्डुरोगे हलीमके हृद्ग्रहणीप्रदोषे ।। 89 ।।
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
द्राक्षा घृत
द्राक्षाबला श्रेयसिशर्कराभिः खर्जूरवीरर्षभकोत्पलैश्च ।
काकोलिमेदायुगजीवकैश्च क्षीरेण सिद्धं महिषीघृतं स्यात् ।।93।।(पित्तज हृद्रोग)
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
कशेरुकादी घृत
कशेरुकाशैवलशृङ्गवेरप्रपौण्डरीकं मधुकं बिसस्य ।
ग्रन्थिश्च सर्पिः पयसा पचेत्तैः क्षौद्रान्वितं पित्तहृदामयघ्नम् ||94 ।।
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
स्थिरादी तीन घृतयोग
स्थिरादिकल्कैः पयसा च सिद्धं
द्राक्षारसेनेक्षुरसेन वाऽपि ।
सर्पिर्हितं स्वादुफलेक्षुजाश्च रसाः सुशीता
हृदि पित्तेदुष्टे ||95।।
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
मायूर घृत
दशमूलबलारास्नात्रिफलामधुकैः सह ।
मयूरं पक्षपित्तान्त्रशकृत्तुण्डाङि्घ्रवर्जितम् ।।163।।
जले पक्त्वा घृतप्रस्थं तस्मिन् क्षीरसमं पचेत् ।
मधुरैः कार्षिकैः कल्कैः शिरोरोगार्दितापहम् ॥ कर्णाक्षिनासिकाजिह्वाताल्वास्यगलरोगनुत् । मायूरमितिविख्यातमूर्ध्वजत्रुगदापहम् ।। 165।।
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
महामायूर घृत
एतेनैव कषायेण घृतप्रस्थं विपाचयेत् ।
चतुर्गुणेन पयसा कल्कैरेभिश्च कार्षिकैः ।।166।।
जीवन्तीत्रिफलामेदामृद्वीकर्धिपरूषकैः ।
समङ्गाचविका भार्गीकाश्मरीसुरदारूभिः ।।167।।
आत्मगुप्तामहामेदातालखर्जूरमस्तकैः ।
मृणालबिसशालूक शृङ्गीजीवपद्मकैः।।168।।
शतावरीविदारीक्षुबृहतीसारिवायुगैः।
मूर्वा श्वदंष्ट्रर्षभकशृङ्गाटककसेरुकैः ।।169॥ रास्नास्थिरातामलकीसूक्ष्मैलाशटिपौष्करैः । पुनर्नवातुगाक्षीरीकाकोलीधन्वयासकैः ।।170।। खर्जूराक्षोटवाताममुञ्जाताभिषुकैरपि । द्रव्यैरेभिर्यथालाभं पूर्वकल्पेन साधितम् ॥171।।
नस्ये पाने तथाऽभ्यङ्गे बस्तौ चैव प्रयोजयेत् ।
शिरोरोगेषु सर्वेषु कासे श्वासे च दारुणे ।।172 ।। मन्यापृष्ठग्रहे शोषे स्वरभेदे तथाऽर्दिते । योन्यसृक्शुक्रदोषेषु शस्तं वन्ध्यासुतप्रदम् ।।173।। ऋतुस्नाता तथा नारी पीत्वा पुत्रं प्रसूयते । महामायूरमित्येतद् घृतमात्रेयपूजितम् ॥174॥
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
उंदीर, कोंबडा, हंस किंवा सशाचे घृत
आखुभिः कुक्कुटैर्हंसैः शशैश्चापि हि बुद्धिमान् ।
कल्पेनानेन विपचेत् सर्पिरुर्ध्वगदापहम् ॥175।।
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
यष्ट्याव्हादी आणि शर्करादी घृत
यष्ट्याव्हचन्दनानन्ताक्षीरसिद्धं घृतं हितम् ।
नावनं शर्कराद्राक्षामधूकैर्वाऽपि पित्तजे ।।179।।
(च.चि.@ त्रिमर्मीयचिकित्साध्यायः 26)
शुद्ध वातनाशक दशमूलादी घृत
द्रोणेऽम्भसः पचेद्भागान् दशमूलाच्चतुष्पलान् ॥119।।
यवकोलकुलत्थानां भागैः प्रस्थोन्मितैः सह ।
पादशेषे रसे पिष्टैर्जीवनीयैः सशर्करैः ॥120 ॥
तथा खर्जूरकाश्मर्यद्राक्षावदरफल्गुभिः ।
सक्षीरैः सर्पिषः प्रस्थः सिद्धः केवलवातनुत् ॥121।। निरत्ययः प्रयोक्तव्यः पानाभ्यञ्जनबस्तिषु ।
( च.चि.@वातव्याधीचिकित्साध्यायः 28 )
चित्रकादी घृत
चित्रकं नागरं रास्नां पौष्करं पिप्पलीं शटीम् ॥122॥
पिष्ट्वा विपाचयेत् सर्पिर्वातरोगहरं परम् ।
( च.चि.@वातव्याधीचिकित्साध्यायः 28 )
बलादी घृत
बलाबिल्वशृते क्षीरे घृतमण्डं विपाचयेत् ।।123।।
तस्य शुक्तिः प्रकुञ्चो वा नस्यं मूर्धगतेऽनिले ।
( च.चि.@वातव्याधीचिकित्साध्यायः 28 )
श्रावण्यादी घृत
श्रावणीक्षीरकाकोलीजीवकर्षभकैः समः ।
सिद्धं समधुकैः सर्पिः सक्षीरं वातरक्तनुत् ॥55।।
( च.चि.@वातशोणितचिकित्साध्यायः 29 )
बलाघृत
बलामतिबलां मेदामात्मगुप्तां शतावरीम् ।
काकोलींं क्षीरकाकोलींं रास्नामृद्धिं च पेषयेत् ॥56 ।। घृतं चतुर्गुणक्षीरं तैः सिद्धं वातरक्तनुत् । हृत्पाण्डुरोगवीसर्पकामलाज्वरनाशनम् ॥57॥
( च.चि.@वातशोणितचिकित्साध्यायः 29 )
पारूषकं घृतम्
त्रायन्तिकातामलकीद्विकाकोलीशतावरी ।कशेरुकाकषायेण कल्कैरेभिः पचेद्घृतम् ।।58 ।।
दत्त्वा परुषकाद्राक्षाकाश्मर्येक्षुरसान् समान् । पृथग्विदार्याः स्वरसं तथा क्षीरं चतुर्गुणम् ॥ 59॥
एतत् प्रायोगिकं सर्पिः पारूषकमिति स्मृतम् ।
वातरक्ते क्षते क्षीणे वीसर्पे पैत्तिके ज्वरे ।।60।।
( च.चि.@वातशोणितचिकित्साध्यायः 29 )
जीवनीय घृत
द्वे पञ्चमूले वर्षाभूमेरण्डं सपुनर्नवम् ।
मुद्गपर्णींं महामेदांं माषपर्णीं शतावरीम् ।।6 1 ।। शङ्खपुष्पीमवाक्पुष्पीं रास्नामतिबलां बलाम् । पृथग्द्विपलिकं कृत्वा जलद्रोणे विपाचयेत् ॥62।। पादशेषे समान् क्षीरधात्रीक्षुच्छागलान् रसान् ।
घृताढकेन संयोज्य शनैर्मृद्वग्निना पचेत् ॥ 63 ।। कल्कानावाप्य मेदे द्वे काश्मर्यफलमुत्पलम् ।
त्वक्क्षीरीं पिप्पलींं द्राक्षां पद्मबीजं पुनर्नवाम् ॥64॥
नागर क्षीरकाकोलींं पद्मकं बृहतीद्वयम् ।
वीरां शृङ्गाटकं भव्यमुरुमाणं निकोचकम् ।।65॥ खर्जूराक्षोटवाताममुञ्जाताभिषुकांस्तथा ।
एतैर्घृताढके सिद्धे क्षौद्रं शीते प्रदापयेत् ||66।।
सम्यक् सिद्धं च विज्ञाय सुगुप्तं सन्निधापयेत् । कृतरक्षाविधिं चौक्षे प्राशयेदक्षसम्मितम् ।।67।। पाण्डुरोगं ज्वरं हिक्कां स्वरभेदं भगन्दरम् ।
पार्श्वशूलं क्षयं कासं प्लीहानं वातशोणितम् ॥68॥ क्षतशोषमपस्मारमश्मरीं शर्करां तथा ।सर्वाङ्गैकाङ्गरोगांश्च मूत्रसङ्गं च नाशयेत् ||69||
बलवर्णकरं धन्यं वलीपलितनाशनम् ।
जीवनीयमिदं सर्पिवृष्यं वन्ध्यासुतप्रदम् ॥70॥
( च.चि.@वातशोणितचिकित्साध्यायः 29 )
द्राक्षा घृत
द्राक्षामधु(धू)कतोयाभ्यां सिद्धं वा ससितोपलम् ।
पिबेद् घृतं तथा क्षीरं गुडूचीस्वरसे शृतम् ॥
( च.चि.@वातशोणितचिकित्साध्यायः 29 )
स्थिरादी घृत
स्थिरा श्वदंष्ट्रा बृहती सारिवा सशतावरी ।काश्मर्याण्यात्मगुप्ता च वृश्चिरो द्वे बले तथा ॥76॥
एषां क्वाथे चतुःक्षीरं पृथक् तैलं पृथग्घृतम् । मेदाशतावरीयष्टिजीवन्तीजीवकर्षभैः ।।77।।
पक्त्वा मात्रा ततः क्षीरत्रिगुणाऽध्यर्धशर्करा ।
खजेन मथिता पेया वातरक्ते त्रिदोषजे ।।78।।
( च.चि.@वातशोणितचिकित्साध्यायः 29 )
काश्मर्यादी घृत
काश्मर्य त्रिफलाद्राक्षाकासमर्दपरुषकैः।।52।।
पुनर्नवाद्विरजनीकाकनासासहाचरैः ।
शतावर्या गुडूच्याश्च प्रस्थमक्षसमैर्घृतात् ॥53।।
साधितं योनिवातघ्नं गर्भदं परमं पिबेत् ।।
(च.चि.@योनिव्यापच्चिकित्साध्यायः 30)
बृहच्छतावरीघृतम्
शतावरीमूलतुलाश्चतस्त्रः सम्प्रपीडयेत् ॥64।।
रसेन क्षीरतुल्येन पचेत्तेन घृताढकम् ।
जीवनीयैः शतावर्या मृद्वीकाभिः परुषकैः ॥65॥
पिष्टैः प्रियालैश्चाक्षांर्द्वियष्टिमधुकैभिषक् ।
सिद्धे शीते च मधुनः पिप्पल्याश्च पलाष्टकम् ॥66॥ सितादशपलोन्मिश्राल्लिह्यात् पाणितलं ततः । योन्यसृक्शुक्रदोषघ्नं वृष्यं पुंसवनं च तत् ॥67।।
क्षतं क्षयं रक्तपित्तं कासं श्वासं हलीमकम् ।
कामलां वातरक्तं च वीसर्पं हच्छिरोग्रहम् ॥68॥ उन्मादारत्यपस्मारान् वातपित्तात्मकाञ्जयेत् ।।
(च.चि.@योनिव्यापच्चिकित्साध्यायः 30)
जीवनीय क्षीरघृत
एवमेव क्षीरसर्पिर्जीवनीयोपसाधितम् ॥69॥
गर्भदं पित्तलानां च योनीनां स्याद्भिषग्जितम् ।
(च.चि.@योनिव्यापच्चिकित्साध्यायः 30)
धामार्गवाचा एक घृतयोग
जात्याः सौमनसायिन्या रजन्याश्चोरकस्य च ।
वृश्चिरस्य महाक्षुद्रसहाहैमवतस्य च ॥16॥
बिम्ब्याः पुनर्नवाया वा कासमर्दस्य वा पृथक् ।
एकं धामार्गवं द्वे वा कषाये परिमृद्य तु ।।17।।
पूतं मनोविकारेषु पिबेद्वमनमुत्तमम् ।
तच्छृतक्षीरजं सर्पि साधितं वा फलादिभि: ।।18।।
(च.कल्पस्थान@धामार्गकल्पाध्यायः 4)
तुल्याम्लं त्रिवृताकल्कसिध्दं गुल्महरं घृतम् ।।66।।
श्यामात्रिवृतयोर्मूलं पचेदामलकैः सह ।
जले तेन कषायेण पक्त्वा सर्पिः पिबेन्नरः ।।67।।
श्यामात्रिवृत्कषायेण सिध्दं सर्पिः पिबेत्तथा ।
साधितं वा पयस्ताभ्यां सुखं तेन विरिच्यते ।।68।।
(च.कल्पस्थान@श्यामात्रिवृत्कल्पाध्यायः 7)
आरग्वधाचे दोन घृत योग (विरेचन)
चतुरङ्गुलसिद्धाद्वा क्षीराद्यदुदिया द्घृतम् ।
मज्ज्ञः कल्केन धात्रीणां रसे तत्साधितं पिबेत् ।। 13।। तदेव दशमूलस्य कुलत्थानां यवस्य च ।
कषाये साधितं सर्पिः कल्कैः श्यामादिभिः पिबेत् ।।
(च.कल्प.@चतुरङ्गुलकल्पाध्यायः 8)
लोध्राचे घृतयोग
अष्टाष्टौ त्रिवृतादीनां मुष्टींस्तु सनखान् पृथक् ।
द्रोणेऽपां साधयेत् पादशेषे प्रस्थं घृतात् पचेत् ॥ पिष्टैस्तैरेव बिल्वांशैः समूत्रलवणैरथ ।
ततो मात्रां पिबेत् काले श्रेष्ठमेतद्विरेचनम् ॥15॥ लोध्रकल्केन मूत्राम्ललवणैश्च पचेद्घृतम् ।
चतुरङ्गुलकल्पेन सर्पिषी द्वे च साधयेत् ॥16॥
(च.कल्प.@तिल्वककल्पाध्यायः 9)
निवडुगचिकाचे दोन घृतयोग
क्षीरेणामलकैः सर्पिश्चतुरङ्गुलवत् पचेत् ।
सुरां वा कारयेत् क्षीरे घृतं वा पूर्ववत् पचेत् ।।20।।
(च.कल्प.@सुधाकल्पाध्यायः 10)
सप्तला व शंखिनी यांचे आठ घृतयोग
शङ्खिनीसप्तलासिद्धात् क्षीराद्यदुदिया द्घृतम् । कल्कभागे तयोरेव त्रिवृच्छ्यामार्धभागिके ।। क्षीरेणालोड्य सम्पक्वं पिबेत्तच्च विरेचनम् । दन्तीद्रवन्त्योः कल्पोऽयमज शृृङ्ग्यजगन्धयो:।।
क्षीरिण्या नीलिकायाश्च तथैव च करञ्जयोः । मसूरविदलायाश्च प्रत्यक्पर्ण्यास्तथैव च ॥14॥ द्विवर्गार्धाशकल्केन तद्वत् साध्यं घृतं पुनः । शङ्खिनीसप्तलाधात्रीकषाये साधयेद्घृतम्।।15।। त्रिवृत्कल्पेन सर्पिश्च
(च.कल्प.@ सप्तलाशंखिनीकल्पाध्यायः 11)
Comments
Post a Comment